|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.98. अध्यायः 098
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण भृगुतीर्थगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति परशुरामस्य दाशरथिरामेण तेजोहरणप्रकारकथनम् ॥ 2 ॥ तथापरशुरामस्य पितृनिदेशाद्भृगुतीर्थनिमज्जनेन पुनस्तेजोलाभकथनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
[लोमश उवाच। 3-98-0x(2033)(19972)
युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम्।
भृगोस्तीर्थं महाराज महर्षिगणसेवितम् ॥ 3-98-1(19973)
यत्रोपस्पृष्टवान्रामो हृतंतेजस्तदाप्तवान्।
अत्र त्वंभ्रातृभिः सार्धं कृष्णया चैव पाण्डव ॥ 3-98-2(19974)
दुर्योधनहृतंतेजः पुनरादातुमर्हसि।
कृतवैरेण रामेण यथा कचोपहृतं पुनः ॥ 3-98-3(19975)
वैशम्पायन उवाच। 3-98-4x(2034)
स तत्रभ्रातृभिश्चैव कृष्णया चैव पाण्डवः।
स्नात्वा देवान्पितॄंश्चैव तर्पयामास भारत ॥ 3-98-4(19976)
तस्य तीर्थस्य रूपं वै दीप्ताद्दीप्ततरं बभौ।
अप्रवृष्यतरश्चासीच्छात्रवाणां नरर्षभ ॥ 3-98-5(19977)
अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः।
भगवन्किमर्थं रामस्य हृतमासीद्वपुः प्रभो।
कथं प्रत्याहृतंचैव एतदाचक्ष्व पृच्छतः ॥ 3-98-6(19978)
लोमश उवाच। 3-98-7x(2035)
शृणु रामस्य राजेन्द्र भार्गवस्य च धीमतः।
जातो दशरथस्यासीत्पुत्रो रामो महात्मनः ॥ 3-98-7(19979)
विष्णुः स्वेन शरीरेण रावणस्य वधाय वै।
पश्यामस्तमयोध्यायां जातं दाशरथिं ततः ॥ 3-98-8(19980)
ऋचीकनन्दनो राभो भार्गवो रेणुकासुतः।
तस् दाशरथेः श्रुत्वा ररामस्याक्लिष्टकर्मणः ॥ 3-98-9(19981)
कौतूहलान्वितो रामस्त्वयोध्यामगमत्पुनः।
जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा ॥ 3-98-10(19982)
तं वै दशरथः श्रुत्वा वियान्तमुपागतम्।
प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम् ॥ 3-98-11(19983)
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम्।
प्रहसन्निव कोन्तेय रामो वचनमब्रवीत् ॥ 3-98-12(19984)
कृतकालं हि राजेन्द्र धनुरेतन्मया विभो।
समारोपय यत्नेन यदि शक्नोषि पार्तिव ॥ 3-98-13(19985)
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि।
नाहमप्यधमो धर्मे क्षत्रियाणां द्विजातिषु।
इश्र्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम् ॥ 3-98-14(19986)
तमेवं वादिनं तत्र रामो वचनमब्रवीत्।
अलं वै व्यपदेशेन धनुरायच्छ राघव ॥ 3-98-15(19987)
ततो जग्राह रोषेण क्षत्रियर्षभमूदनम्।
रामो दाशरथिर्दिव्यं हस्ताद्रामस्य कार्मुकम् ॥ 3-98-16(19988)
धनुरारोपयामास सलील इव भारत।
ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्।
तस्य शब्दस् भूतानि वित्रसन्त्यशनेरिव ॥ 3-98-17(19989)
अथाब्रवीत्तदा रामो रामं दाशरथिस्तदा।
इदमारोपितं ब्र्हमन्किमन्यत्करवाणि ते ॥ 3-98-18(19990)
तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः।
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥ 3-98-19(19991)
लोमश उवाच। 3-98-20x(2036)
एतच्छ्रुत्वाऽब्रवीद्रामः प्रदीप्त इव मन्युना।
श्रूयते क्षम्यते चैव दर्पपूर्णोसि भार्गव ॥ 3-98-20(19992)
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः।
पितामहप्रसादेन तेन मां क्षिपसि ध्रुवम्।
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ॥ 3-98-21(19993)
ततो रामशरीरे वै रामः पश्यति भार्गवः।
आदित्यान्सवसून्रुद्रान्साध्यांश्च समरुद्गणान् ॥ 3-98-22(19994)
पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा।
गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च ॥ 3-98-23(19995)
ऋषयो वालखिल्याश्च ब्र्हमभूताः सनातनाः।
देवर्षयश्च कार्त्स्न्येन समुद्राः पर्वतास्तथा ॥ 3-98-24(19996)
वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः।
चेतोमन्ति च सामानि धनुर्वेदश्च भारत।
मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर ॥ 3-98-25(19997)
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह।
शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत ॥ 3-98-26(19998)
पांसुवर्षेण महता मेघवर्षैश्च भूतलम्।
भूमिकम्पैश्च निर्घातैर्नादैश्च विपुलैरपि ॥ 3-98-27(19999)
स रामं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम्।
आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः ॥ 3-98-28(20000)
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम्।
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ॥ 3-98-29(20001)
विष्णुना सोभ्यनुज्ञातो महेन्द्रमगमत्पुनः।
भीतस्तु तत्रन्यवसद्ब्रीडितस्तु महातपाः ॥ 3-98-30(20002)
ततः संवत्सरेऽतीते हृतौजसमवस्थितम्।
निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥ 3-98-31(20003)
न वै सम्यगिदं पुत्र विष्णुमासाद्य वैकृतम्।
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ॥ 3-98-32(20004)
गच्छ पुत्रनदीं पुण्यां वधूसरकृताह्वयाम्।
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ॥ 3-98-33(20005)
दीप्तोदं नाम तत्तीर्थं यत्रते प्रतितामहः।
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ॥ 3-98-34(20006)
तत्तथा कृतवान्रामः कौन्तेय वचनात्पितुः।
प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन्पाण्डुनन्दन ॥ 3-98-35(20007)
एतदीदृशकं तात रामेणाक्लिष्टकर्मणा।
प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा ॥ 3-98-36(20008)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-98-2 रामो जामदग्यः। हृतं दाशरथिरमेण ॥ 3-98-5 तस्य युधिष्ठिरस्य। तीर्थस् तीर्थे स्नातस्य ॥ 3-98-6 वषुः तेजः ॥ 3-98-9 दाशरथेः। कर्मणि षष्ठी ॥ 3-98-15 व्यपदेशेन उक्त्या ॥ 3-98-25 चेतोमन्ति चेतनावन्ति। आर्षं पदत्वप्रयुक्तं रुत्वम्। चेतस्वन्तीत्यपेक्षितम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|